ॐ गं गणपतये नमः !!
प्रारंभी विनती करू गणपति विद्यादयासागरा |
अज्ञानत्व हरूनि बुद्धीमति दे आराध्य मोरेश्र्वरा ||
चिंता,क्लेश,दारिद्रय,दुःख हरूनि देशांतरा पाठवी|
हेरंबा,गणनायका,गजमुखा भक्ताबहुतोषवी!!
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरैरपि , सर्व विघ्नच्चिदे तस्मै गणाधिपतये नमः !
ॐ गं गणपतये नमः !!
वक्रतुंड महाकाय सूर्यकोटि संप्रभ निर्विघ्नं कुरु में देव सर्व कार्येशु सर्वदा !
शुक्लाम्बरधरं देवं | शशिवर्ण चतुर्भुजम | प्रसन्नवदनं ध्यायेत्सर्व | विघ्नोंपशान्तये ||
खर्वस्थूलतनुं गजेन्द्रवदनं लम्बोदरंसुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम
दंताघातविदारितारिरूधिरैः सिन्दूरशोभाकरं वन्दे शलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ||
ॐ गं गणपतये नमः !!
गजाननं भूत गणादि सेवितं,
कपित्थ जम्बू फल चारू भक्षणम्।
उमासुतं शोक विनाशकारकम्,
नमामि विघ्नेश्वर पाद पंकजम्॥
ॐ गं गणपतये नमः !!
गणानांत्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवांमहे ।।
निधीनां त्वा निधिपतिं हवामहे व सो मम ।। आहमजानि गर्भधमानि गर्भधमात्व मजासि गर्भधम् ।।
शुक्ल यजुर्वेद 23/19
ॐ गं गणपतये नमः !!
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं
हस्तैर्बिभ्राणं मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं
रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च
सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । एवं ध्यायति यो नित्यं स
योगी योगिनां वरः ॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु
लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये
नमः ॥
ॐ गं गणपतये नमः !!
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपायविष्णुरूपाय ते नमः नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यंविनायक ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
ॐ गं गणपतये नमः !!
सुमुखश्चैकदंतश्च | कपिलो गजकर्णक: | लंबोदरश्च विकटो | विघ्ननाशो विनायकः ||
धुम्रकेतुर्गनाध्यक्षो | भालचंद्रो गजानन:|द्वादशैतानिनामानि |गणाधीशस्य यः पठेत||
ॐ गं गणपतये नमः !!
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ।।१ ।।
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।।तृतीयं कृष्णपिङ्क्षं गजवक्त्रं चतुर्थकम् ।।२ ।।
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।३ ।।
नवमं भालचन्द्रं च दशमं तु विनायकम् ।एकादशं गणपतिं द्वादशं तु गजाननम् ।।४ ।।
द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ।।५ ।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६ ।।
जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।७ ।।
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् ।तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ।।८ ।।
इति श्री नारदपुराणे संकटविनाशनं श्रीगणपतिस्तोत्रं संपूर्णम् ।
ॐ गं गणपतये नमः
ऊँ नमो विघ्रराजाय सर्व सौख्यप्रदायिने। दुष्टारिष्ट विनाशाय पराय परमात्मने।।
लम्बोदरं महावीर्यं नाग यज्ञो पशोभितम्। अर्द्धचन्द्रधरं देवं विघ्रव्यूह विनाशनम्।।
ऊँ ह्राँ ह्रीं ह्रूँ ह्रौं ह्र: नम: हेरम्बाय नमोनम:।सर्वसिद्धि प्रदोसि त्वं सिद्धि बुद्धिप्रदो भव।।
चिन्तितार्थ प्रदस्त्वं हि सततं मोदकप्रिय:।सिन्दूरा रूणवस्त्रैश्य पूजितो वरदायक:।।
इदं गण पतिस्त्रोत्रं य: पठेद् भक्तिमान नर:।तस्य देहं च गेहं च स्वयं लक्ष्मीर्न मुञ्चति।।
ॐ गं गणपतये नमः !!






















